श्री रुद्रसूक्त

सावन के महीने में रुद्र सूक्तका पाठ करके शिव जी को अभिषेक करने से सारी मनोकामना पूर्ण हो जाती हैं। भगवान शिव को प्रसन्न करने के लिए और सभी शत्रुओं और जीवन में दुखों के नाश के लिए रुद्र सूत्र का विशेष महत्व है। भगवान शंकर को जलधारा सर्वाधिक प्रिय है इसलिए जल से अभिषेक करते समय रुद्र सूक्त को प्रमुख बताया गया है। रुद्राभिषेक के अन्तर्गत रुद्राष्टाध्यायी के पाठ में ग्यारह बार रुद्र सूक्त को बोलने पर पूर्ण रुद्राभिषेक माना जाता है। फल की दृष्टि से इसका अत्यधिक महत्त्व है। यह ‘रुद्रसूक्त’ आध्यात्मिक, आधिदैविक एवं आधिभौतिक-त्रिविध तापों से मुक्त कराने तथा अमृतत्व की ओर अग्रसर करने का अत्यधिक सरल और कारगर उपाय है। रूद्र-सूक्त का पाठ करने वाला अपने सम्पूर्ण पापों, भयों और दुखों से छुटकारा पाकर अंत में मोक्ष को प्राप्त करता है।

For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431

Eligible For Puja: Anyone 0 Students enrolled
Last updated on : Thu, 30-Mar-2023 Hindi-gujarati
पूजा के लाभ

पूजाविधि के चरण
00:00:00 Hours
पूजन सामग्री
वर्णन

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः।

बाहुभ्यामुत ते नमः॥१॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी।

तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥२॥

यामिषुं गिरिशन्त हस्ते बिभर्यस्तवे।

शिवां गिरित्र तां कुरु मा हि ᳬ सी: पुरुषं जगत् ॥३॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि।

यथा नः सर्वमिज्जगदयक्ष्म ᳬ सुमना असत्॥४॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।

अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्च

यातुधान्योऽधराचीः परा सुव॥५॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः।

ये चैन ᳬ रुद्रा अभितो दिक्षु श्रिताः

सहस्रशोऽवैषा ᳬ हेड ईमहे॥६॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः।

उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।

अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः॥८॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्।

याश्च ते हस्त इषवः परा ता भगवो वप॥९॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत।

अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः।

तयाऽस्मान्विश्वतस्त्वमयमया परि भुज॥११॥

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।

अथो य इषुधिस्तवारे अस्मन्नि धेहि तम्॥१२॥

अवतत्य धनुष्ट्व ᳬ सहस्राक्ष शतेषुधे।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१३॥

नमस्त आयुधायानातताय धृष्णवे।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥

मा नो महान्तमुत मा नो

अर्भकं मा न उक्षन्तमुत मा न उक्षितम्।

मा नो वधी: पितरं मोत मातरं

मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥

मा नस्तोके तनये मा न आयुषि

मा नो गोषु मा नो अश्वेषु रीरिषः।

मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः

सदमित् त्वा हवामहे॥१६॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो

नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः

शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो

हरिकेशायोपवीतिने पुष्टानां पतये नमः॥१७॥

नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो

नमो भवस्य हेत्यै जगतां पतये नमो

नमो रुद्रायाततायिने क्षेत्राणां पतये नमो

नमः सूतायाहन्त्यै वनानां पतये नमः ॥१८॥

नमो रोहिताय स्थपतये वृक्षाणां पतये नमो

नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो

नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो

नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥१९॥

नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः

सहमानाय निव्याधिन आव्याधिनीनां पतये नमो

नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो

नमो निचेरवे परिचरायारण्यानां पतये नमः ॥२०॥

नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो

निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः

सृकायिभ्यो जिघा ᳬ सद्भयो मुष्णतां पतये नमो

नमोऽसिमद्भयो नक्तञ्चरद्भयो विकृन्तानां पतये नमः॥२१॥

नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये

नमो नम इषुमद्भयो धन्वायिभ्यश्च वो नमो

नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो

नम आयच्छद्भयो ऽस्यद्भयश्च वो नमः ॥२२॥

मो विसृजद्भयो विध्यद्भयश्च वो नमो

नमः स्वपढ्यो जाग्रद्भ्यश्च वो नमो

नमः शयानेभ्य आसीनेभ्यश्च वो नमो

नमस्तिष्ठद्भयो धावद्भ्यश्च वो नमः॥२३॥

नमः सभाभ्यः सभापतिभ्यश्च वो नमो

नमोऽश्वेभ्यो ऽश्वपतिभ्यश्च वो नमो नम

आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो

नम उगणाभ्यस्तृ ᳬ हतीभ्यश्च वो नमः॥२४॥

नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो

व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो

गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो

विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः॥२५॥

नमः सेनाभ्यः सेनानिभ्यश्च वो नमो

नमो रथिभ्यो अरथेभ्यश्च वो नमो नमः

क्षतृभ्यः संग्रहीतृभ्यश्च वो नमो नमो

महद्भयो अर्भकेभ्यश्च वो नमः॥२६॥

नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो

नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो

नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमो नमः

श्वनिभ्यो मृगयुभ्यश्च वो नमः॥२७॥

नमः श्वभ्यः श्वपतिभ्यश्च वो नमो

नमो भवाय च रुद्राय च नमः

शर्वाय च पशुपतये च नमो

नीलग्रीवाय च शितिकण्ठाय च॥२८॥

नमः कपर्दिने च व्युप्तकेशाय च

नमः सहस्राक्षाय च शतधन्वने च

नमो गिरिशयाय च शिपिविष्टाय च

नमो मीढुष्टमाय चेषुमते च॥२९॥

नमो ह्रस्वाय च वामनाय च

नमो बृहते च वर्षीयसे च

नमो वृद्धाय च सवृधे च

नमोऽग्न्याय च प्रथमाय च॥३०॥

नम आशवे चाजिराय च नमः

शीघ्रयाय च शीभ्याय च

नम ऊर्ध्याय चावस्वन्याय च नमो

नादेयाय च द्वीप्याय च॥३१॥

नमो ज्येष्ठाय च कनिष्ठाय च नमः

पूर्वजाय चापरजाय च

नमो मध्यमाय चापगल्भाय च

नमो जघन्याय च बुध्याय च ॥३२॥

नमः सोभ्याय च प्रतिसर्याय च

नमो याम्याय च क्षेम्याय च

नमः श्लोक्याय चावसान्याय च

नम उर्वर्याय च खल्याय च॥३३॥

नमो वन्याय च कक्ष्याय च नमः

श्रवाय च प्रतिश्रवाय च नम:

आशुषेणाय चाशुरथाय च नमः

शूराय चावभेदिने च॥३४॥

नमो बिल्मिने च कवचिने च नमो

वर्मिणे च वरूथिने च नमः

श्रुताय च श्रुतसेनाय च नमो

दुन्दुभ्याय चाहनन्याय च॥३५॥

नमो धृष्णवे च प्रमृशाय च

नमो निषङ्गिणे चेषुधिमते च नमस्ती

क्ष्णेषवे चायुधिने च नमः

स्वायुधाय च सुधन्वने च॥३६॥

नमः स्रुत्याय च पथ्याय च नमः

काट्याय च नीप्याय च नमः कुल्याय

च सरस्याय च नमो नादेयाय

च वैशन्ताय च॥३७॥

नमः कूप्याय चावट्याय च

नमो वीध्र्याय चातप्याय च

नमो मेघ्याय च विद्युत्याय च

नमो वाय चावाय च॥३८॥

नमो वात्याय च रेष्याय च

नमो वास्तव्याय च वास्तुपाय च

नमः सोमाय च रुद्राय च

नमस्ताम्राय चारुणाय च॥३९॥

नमः शङ्गवे च पशुपतये च नम

उग्राय च भीमाय च नमोऽग्रेवधाय

च दूरेवधाय च नमो हन्त्रे च हनीयसे

च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय॥४०॥

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय

च मयस्कराय च नमः शिवाय च शिवतराय च॥४१॥

नमः पार्याय चावार्याय च नमः

प्रतरणाय चोत्तरणाय च नमस्तीर्थ्याय

च कल्याय च नमः शष्याय च फेन्याय च॥४२॥

नमः सिकत्याय च प्रवाह्याय च नमः

कि ᳬ शिलाय च क्षयणाय च नमः कपर्दिने

च पुलस्तये च नम इरिण्याय च प्रपथ्याय च॥४३॥

नमो व्रज्याय च गोष्ठ्याय च

नमस्तल्प्याय च गेह्याय च नमो हृदय्याय च

निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च॥४४॥

नमः शुष्क्याय च हरित्याय च नमः

पा ᳬ सव्याय च रजस्याय च नमो लोप्याय

चोलप्याय च नम ऊर्व्याय च सूर्व्याय च॥४५॥

नमः पर्णाय च पर्णशदाय च नम उद्गुरमाणाय

चाभिघ्नते च नम आखिदते च प्रखिदते

च नम इषुकृद्भयो धनुष्कद्भ्यश्च वो नमो नमो

व: किरिकेभ्यो देवाना ᳬ हृदयेभ्यो नमो

विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः॥४६॥

द्रापे अन्धसस्पते दरिद्र नीललोहित।

आसां प्रजानामेषां पशूनां मा भेर्मा

रोड्मो च नः किंचनाममत्॥४७॥

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः।

यथा शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम्॥४८॥

या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी।

शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥४९॥

परि नो रुद्रस्य हेतिवृणक्तु परि त्वेषस्य दुर्मतिरघायोः।

अव स्थिरा मघवद्भयस्तनुष्व मीढ्वस्तोकाय तनयाय मृड॥५०॥

मीढुष्टम शिवतम शिवो नः सुमना भव।

परमे वृक्ष आयुधं निधाय कृत्तिं वसान

आ चर पिनाकं बिभ्रदा गहि॥५१॥

विकिरिद्र विलोहित नमस्ते अस्तु भगवः।

यास्ते सहस्र ᳬ हेतयोऽन्यमस्मन्नि वपन्तु ताः॥५२॥

सहस्राणि सहस्रशो बाह्वोस्तव हेतयः।

तासामीशानो भगवः पराचीना मुखा कृधि॥५३॥

असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम्।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥५४॥

अस्मिन् महत्यर्णवे ऽन्तरिक्षे भवा अधि।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥५५॥

नीलग्रीवा: शितिकण्ठा दिव ᳬ रुद्रा उपश्रिताः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि ॥५६॥

नीलग्रीवा: शितिकण्ठाः शर्वा अधः क्षमाचराः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥५७। 

ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥५८॥

ये भूतानामधिपतयो विशिखासः कपर्दिनः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥५९॥

ये पथां पथिरक्षय ऐलबृदा आयुर्युधः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥६०॥

ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि ॥६१॥

येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥६२॥

य एतावन्तश्च भूया ᳬ सश्च दिशो रुद्रा वितस्थिरे।

तेषा ᳬ सहस्रयोजनेऽव धन्वानि तन्मसि॥६३॥

नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः।

तेभ्यो दश प्राचीर्दश दक्षिणा दश

प्रतीचीशोदीचीर्दशोर्ध्वाः।

तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते

यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः॥६४॥

नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवः।

तेभ्यो दश प्राचीर्दश दक्षिणा दश

प्रतीचीर्दशोदीचीर्दशोर्ध्वाः

तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते

यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः॥६५॥

नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः।

तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः।

तेभ्यो नमो अस्तु ते नोऽवन्तु ते नो मृडयन्तु ते

यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः॥६६॥ [शु० यजुर्वेद १६।१-६६]

॥ श्री रूद्र सूक्त समाप्तम्॥